|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.184. अध्यायः 184
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति विद्यातपोदानप्रशंसापरख्यासमैत्रेयसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत।
दिष्ट्यैतत्त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी? 13-184-1(88715)
लोको ह्ययं गुणानेव भूयिष्ठं सम्प्रशंसति।
रूपमानो वयोमानो धनविद्यामदस्तथा॥ 13-184-2(88716)
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः।
तत्ते बहुगुणं दानं वर्तयिष्यामि तच्छृणु॥ 13-184-3(88717)
यानीहागमशास्त्राणि याश्च काश्चित्प्रिवृत्तयः।
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्। 13-184-4(88718)
अहं दानं प्रशंसामि भवानपि तपःश्रुतेः।
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्॥ 13-184-5(88719)
तपसा महदाप्नोति विद्यया चेति नः श्रुतम्।
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम्॥ 13-184-6(88720)
यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः।
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः॥ 13-184-7(88721)
दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्।
सर्वं वै तपसाऽभ्योति तपो हि बलवत्तरम्॥ 13-184-8(88722)
सुरापः स्वर्णहारी च भ्रूणहा गुरुतल्पगः।
तपसा तरते सर्वमेनसश्च प्रमुच्यते॥ 13-184-9(88723)
सर्वो वैद्यस्तु चक्षुष्मानपि यादृशतादृशः।
तपस्विनं तथैवाहुस्ताभ्यां कार्यं सतां मतम्॥ 13-184-10(88724)
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः।
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्॥ 13-184-11(88725)
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्।
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकम्॥ 13-184-12(88726)
पूजिताः पूजयन्त्येते मानिता मानयन्ति च।
स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते॥ 13-184-13(88727)
अकर्ता चैव कर्ता च लभते यस्य यादृशम्।
यदि चोर्ध्वं यद्यधो वा स्वान्लोकानभियास्यति॥ 13-184-14(88728)
प्राप्स्यसि त्वन्नपानानि यानि दास्यसि कर्हिचित्।
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्॥ 13-184-15(88729)
कौमारदारो व्रतवान्मैत्रेय निरतो भव।
[एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्॥ 13-184-16(88730)
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते॥ 13-184-17(88731)
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा।]
दानेन तपसा चैव विष्णोरभ्यर्चनेन च।
`ब्राह्मणः स महाभाग तरेत्संसारसागरात्॥ 13-184-18(88732)
स्वकर्मशुद्धसत्त्वानां तपोभिर्निर्मलात्मनाम्।
विद्यया गतमोहानां तारणाय हरिः स्मृतः॥ 13-184-19(88733)
तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु।
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः॥ 13-184-20(88734)
प्रणवोपासनपराः परमार्थिपरास्त्विह।
एतैः पावय चात्मानं सर्वपापमपोह्य च॥' 13-184-21(88735)
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम्।
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति॥ 13-184-22(88736)
तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम्।
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः॥ ॥ 13-184-23(88737)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः॥ 184 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-184-3 वर्तयिष्यामि कथयिष्यामि॥ 7-184-10 यः सर्ववित्स चक्षुष्मान् यादृशतादृशमपि तपस्विनं तथैव चक्षुष्मन्तमेवाहुः। ताभ्यां सर्ववित्तपस्विभ्याम्॥ 7-184-17 वासिता स्वस्त्री॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|